Pandit | Pandit Online
top of page

अथ प्रतिहारपष्ठी(छठ)पूजा

छठ पूजा सामग्री

  • शुद्ध मिट्टी (महादेव का स्वरुप बनावें)     

  • कुश (तेकुशा),अनामिका(कुश,ताँबा) अँगुली में धारण करने वाला

  • गंगाजल

  • अक्षत (वासमती चावल)

  • श्रीखण्ड चंदन (उजला चंदन)

  • रक्त चंदन (लाल चंदन)

  • चन्द्रौटा (छोटा प्लेट)

  • अर्घा (छोटा ग्लास)

  • पञ्चपात

  • आचमनि

  • घण्टी

  • सराई

  • लाल सिन्दूर

  • फूलक माला

  • तुलसी माला

  • बेलपत्र

  • दुर्वा(दुइव)

  • धूप

  • दीप

  • पान

  • सुपाड़ी(कसैली)

  • पंचमेवा (मिठाई)

  • पाकल केरा

  • पंचामृत(दुध,दही,घी,मधु, शक्कर)

  • जनेऊ

  • कर्पूर  

  • घी 

  • दक्षिणा-द्रव्य 

  • केला पत्ता

  • शंख

  • नया वस्त्र

व्रती नित्यक्रिया सम्पन्नकर सरित्तटपर आकर संध्या(शाम) समय में सूर्याभिमुखी होकर दाहिने हाथ में जल  लेकर अपने शरीर को शिक्त करने से पूर्व इस मंत्र को पढ़ेंगे, अनन्तर शरीर को शिक्त करेंगे ।

नमो अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं  स बाह्याभ्यन्तरः शुचिः।।

संकल्पं कुर्यात् –

दाहिने हाथ में तेकुशा , तिल,जल लेकर संकल्प करें -

नमोऽद्य कार्तिक- मासीयशुक्लपक्षीयषष्ठ्यां तिथौ अमुकगोत्राया ममाऽमुकीदेव्या इह जन्मनि जन्मान्तरे वा सकलदुःखदारिद्र्यसकल- पातकक्षयापस्मार-कुष्टादिमहाव्याधि-सकलरोगक्षय-चिरजीविपुत्रपौत्रादि-लाभगोधनधान्यादिसमृद्धिसुखसौभा-ग्याऽवैधव्य -सकलकामावाप्तिकामा अद्य श्वश्च सूर्यायार्घ्यमहं दास्ये। इति सङ्कल्प्य  

सूर्य पूजा -

1. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

नमो भगवन् सूर्य इहागच्छ इह तिष्ठ।

इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि नमो सूर्याय नमः

नानाफलदूर्वांरक्तचन्दनाक्षतघृतपाचितान्नयुतताम्रपात्रस्थार्घ्यमादाय- ताम्रपात्र में फल दूर्वा रक्तचन्दन अक्षत घृत पाचितान्न एवं जल लेकर निम्नलिखित मन्त्र पढकर भगवान सूर्य को अर्घ प्रदान करें -

नमोऽस्तु सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे। त्वमेव चार्घ्यं प्रतिगृह्ण गृह्ण देवाधिदेवाय नमो नमस्ते ॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे तत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ ज्योतिर्मय विभो सूर्य तेजोराशे जगत्पते ॥ अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । गृहाणार्घ्यं मया दत्तं संज्ञया सहितप्रभो । एतान्मन्त्रान् समुच्चार्य्यं उत्तिष्ठन्ती अर्घ्यं दद्यात्।

3. दाहिने हाथ से फूल में रक्तचन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  नमो सूर्याय नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –

इदं सिन्दूराभरणम्   नमो सूर्याय नमः

5. दाहिने हाथ में रक्ताक्षत लेकर ये मंत्र  पढेंगे –

इदमक्षतम्   नमो सूर्याय नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  सूर्य का ध्यान करते हुए ये मंत्र  पढेंगे -  

ओं विचित्रैरावतस्थाय भारवत्कुलिशपाणये। पौलग्यालिङ्गिताङ्गाय सहस्राक्षाय ते नमः।

इदं पुष्पं/ एतानि पुष्पाणि नमो सूर्याय नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि नमो सूर्याय नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि नमो सूर्याय नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि नमो सूर्याय नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   नमो सूर्याय नमः ।

11. फूल  हाथ में लेकर सूर्य का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः नमो सूर्याय नमः।

ततः प्रदक्षिणा-

शंख या अर्घा में जल लेकर सातवार प्रदक्षिणा करें और जल सूर्य पर चढाएं-

नमो यानि कानि च पापानि ब्रह्महत्या समानि च।

तानि तानि प्रणश्यन्तु प्रदक्षिण पदे पदे ।।

 

पुष्प लेकर ध्यान पूर्वक नमस्कार करते हुए पुष्प चढाएँ -

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । ध्वान्तारिं सर्वपापध्नं प्रणतोस्मि दिवाकरम् ।

दाहिनें हाथ में एक - एक डाली (दधि,कदलीफल,नारिकेल इत्यादि) , कोनियाँ को लेकर सूर्य  भगवान को समर्पण (दिखाकर) करके कथा सुने -

 

अथ प्रतिहारषष्ठीव्रतकथा-

नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।

एकदा नैमिषारण्ये शौनकाद्या महर्षयः। नानादुःखयुतान् दृष्ट्वा मनुष्यांश्च दयालवः ॥ १ ॥

तमागतं समालोक्य समभ्यर्च्याप्तसौहृदाः पप्रच्छुर्विनयान्नृणां दुःखनाशाय सत्तमा: ॥२॥

सूत सूत महाभाग सर्वशास्त्रार्थकोविद । नानादुःखसमायुक्ता मनुष्या भूतले स्थिताः ॥ ३ ॥

दुःखनाशः कथं तेषां मनुष्याणां भवेद्वद् । सूत उवाच-कथयामि कथां दिव्यां शृणुध्वं हि समाहिताः ॥ ४ ॥

एवमेव पुरा पृष्ट: पुलस्त्यो वाग्विशारदः । सत्यव्रतेन भीष्मेण लोकानुग्रहकांक्षया ॥ ५ ॥

मनुष्याश्चापि लोकेऽस्मिन् स्वकर्मवशवर्तिनः । अल्पायुषोऽल्पदेहाश्च तथा चैवाल्पबुद्धयः ॥ ६ ॥

अल्पप्रजाः धर्महीना आलस्याद्विहितोज्झिताः। देवार्चनविहीनाश्च भूसुरस्यापमानिनः ॥ ७ ॥

दुःखजालैः परीभूता: पीडिताश्चप्यहर्निशम् । दुःखनाशः कथं तेषामचिरात् स्याद्वद प्रभो ॥८॥

एवं पृष्ठो मुनिः प्राह रोगसन्दोहनाशने । पुलस्त्व उवाच- शृणुध्वं कथयिष्यामि पुरावृत्तं मनोरमम् ॥ ९॥

शृण्वतां पठतां नृणां महापातकनाशनम् । आसीत् क्षत्रियदायादः सर्वेषां द्रोहकृन्नृणाम् ॥ १० ॥

परोत्सवं न सहते भूयो दुष्टमतिर्बली । प्राग्जन्मकृतदोषेण कुष्ठरोगातुरोऽभवत् ॥ ११ ॥

यक्ष्मादिरोगसम्पन्नो जीवन्नेव मृतोपमः | जीवनान्मरणं भद्रं मेने रोगातुरः किल ॥ १२ ॥

तदा वै ब्राह्मणः कश्चिद्वेदवेदांगपारगः । तेजस्वी सर्वशास्त्रज्ञस्तपस्वी करुणार्द्रधीः ॥ १३ ॥

तीर्थयात्राप्रसङ्गेन तत्रापि समुपागतः । तमागतं समुत्तस्थुर्ददुस्तस्मै वरासनम् ॥ १४ ॥

प्रणेमुश्चोपविष्टञ्च तमूचुर्विनयान्विताः । अहो भाग्यवशाद्यातं दर्शनं तव सुव्रत ॥ १५ ॥

दु:खनाशो भवेत् त्वत्त इति मन्यामहे वयम् । महोदयाय महतां दर्शनं नान्यथा भवेत् ॥ १६ ॥

इति मत्वाथ पृच्छामि त्वामिदं करुणानिधे । कुष्ठाभिभूतश्चैवायं तथा पुत्रविवर्जितः ॥ १७ ॥

मृतप्रज- स्तथैवायमयञ्च धनवर्जितः । परित्यक्ता च भर्त्रेयमियं प्रोषितभर्तृका ॥ १८ ॥

राज्यभ्रष्टाः कुमाराश्च विद्याहीनाश्च सन्ति हि । दुःसनाशः कथं तेषां भवेद्वद महामते ॥ १९ ॥

इत्याकर्ण्यं वचस्तेषां ब्राह्मणः करुणामयः । अभिनन्द्य वचस्तेषां स विचारपरोऽभवत् ॥ २० ॥

आरोग्यं भास्कराददेवात्पापराशिक्षयस्तथा । पापमूलानि दुःखानि सर्वाणीति जगुर्बुधाः॥ २१ ॥

एक एवोपदेशोऽत्र कर्तव्यः सर्वकार्यकृत् । एते विधिमजानन्तो जपादिकरणेऽक्षमाः ॥ २२ ॥

भक्तिश्रद्धाविहीनाश्च तथात्मानधिकारिणः । भूयो भूयो विचार्याथ जगाद वचनं द्विजः ॥ २३ ॥

भास्करस्य व्रतं त्वेकं यूयं कुरुत सत्तमाः। सर्वेषां दूःखनाशो हि भवेतस्य प्रसादतः ॥ २४ ॥

श्रत्वा मुमुदिरे सर्वे स्मृत्वा वाक्यं पुनः पुनः । पप्रच्छुर्विनयात् सर्वे हर्षगद्गदया गिरा ॥ २५ ॥

कदा कोऽत्र विधिर्विप्र कथनाराधनं विभोः। सर्वं विस्तरतो ब्रूहि कृपासागर सुव्रत ॥ २६ ॥

विप्र उवाच-कार्तिके शुक्लपक्षे तु निराभिषपरो भवेत् । पन्मम्यामेकभोजी स्याद्वाक्यं दुष्टं परित्यजेत् ॥ २७ ॥

भावदुष्टं न भुञ्जीत दुष्टश्रवणकृन्नरः । भूमिशायी जितक्रोधः शुचि: श्रद्धासमन्वितः ॥ २८ ॥

षष्ठ्याञ्चैव निराहार: फलपुष्पसमन्वितः । सरित्तटं समासाद्य गन्धदीपैर्मनोहरैः ॥२९॥

धूपैर्नानाविधैर्दिव्यैर्नैवेद्यैघृत- पाचितैः। गीतवाद्यादिभिश्चैव महोत्सवसमन्वितैः ॥ ३० ॥

समभ्यर्च्य रवि भक्त्या दद्यादर्घ्यं विवस्वते। रक्तचन्द- नसंमिश्रं रक्तपुष्पाक्षतान्वितम् ॥ ३१ ॥

नानाफलसमायुक्तं दिव्यकौशेयसंयुतम् ॥ ३२ ॥

नमोऽस्तु सूर्याय सहस्र- भानवे नमोस्तु वैश्वानरजातवेदसे । त्वमेव चार्घ्यं प्रतिगृह्ण गृह्ण देवाविदेवाय नमो नमस्ते ॥ ३३ ॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे । दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ ३४ ॥

ज्योतिर्मय विभो सूर्य तेजोराशे जगत्पते।अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥ ३५ ॥

एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । गृहाणार्घ्यं मया दत्तं संज्ञया सहितप्रभो ॥ ३६॥

मन्त्रैरेभिः प्रदातव्यं भास्वते दीप्ततेजसे अर्धप्रदक्षिणां कृत्वा प्रणमेच्च पुनः पुनः ॥ ३७॥

गीतवाद्यादिनृत्यैश्च रात्रौ जागरणं चरेत् । पुन: प्राप्त: समभ्यर्च्य दत्वाऽर्घ्यं स्वस्थमानसः ॥ ३८ ॥

सदक्षिणं तथा चान्नं विप्रेभ्यः प्रतिपादयेत् । व्रती च पारणां कुर्यात् प्रसन्नवदनाम्बुज: ॥ ३९ ॥

व्रतेनानेन सन्तुष्टो दुःखं हरति भास्करः । चक्रुस्ते श्रद्धया युक्ताः स्वस्वदुःखोपशान्तये ॥ ४० ॥

यक्ष्मापस्मारकुष्टादियुक्तः क्षत्रियनन्दनः । कमनीयः स नारीणां त्रिभिर्वर्षेर्बलान्वितः ॥ ४१ ।।

पुत्रहीनो भवेत्पुत्री जीवत्पुत्रो मृतप्रजः सुभगा पतिना त्यक्ता पत्युः प्राणसमा भवेन् ।। ४२ ॥

प्रोषितस्तु पतिर्यस्याः सा भवेद्भर्तृसंयुता। एवं मनोरथैः पूर्णा अभवन् व्रत कारिणः ॥ ४३ ॥

सूत उचाच-ख्यातमेतद् व्रतं विप्राः स्तुतं वै सर्वदेहिनाम् । वाञ्छितार्थप्रदञ्चैव व्रतं सर्वसुखप्रदम् ।। ४४॥

आसीत्तत्र दरिद्रो यः सद्ब्राह्मणकुलोद्भवः। विद्याहीन: कुमारश्च भिक्षुर्गृ- हविवर्जित: ॥ ४५ ॥

न वित्त- नियमस्तस्य न भक्ष्याच्छादनस्य च । क्षुत्क्षामः पर्यटन् पृथ्वीं शर्म विन्दति न क्वचित् ॥ ४६॥

एवं बहुतिथे काले पर्यटन खिन्नमानसः । समागतश्च तत्रैव यत्रैते समुपागताः ॥ ४७ ॥

श्रुत्वा विप्रवचस्सोऽथ प्राहेदं हृष्टमानसः । अकार्षीच्छ्रद्धया चैतद् व्रतं सर्वेप्सितप्रदम् ॥४८॥

व्रतेनेकैन तस्यासीदतीव पठने मतिः । पठित्वा कतिचिद्वर्षैः काव्यालङ्कृतिवित्कृती ॥ ४९ ॥

स्वविद्योपार्जितैर्वित्तैर्विवाह्यैकां सुवंशजाम् पुत्रपौत्रान्वितो भूत्वा सर्वसम्पत्समन्वितः॥ ५० ॥

पाठयन् बहुशो विप्रान् सर्वभोगान्वितः सुखी । जपन्नष्टाक्षरं विष्णोर्वेदपारायणं चरन् ॥ ५१ ॥

निनाय च दिनं सर्वमन्ते तेजस्विना गतिम् । जगाम स द्विजश्रेष्ठो व्रतस्यास्य प्रसादतः ॥ ५२ ॥

राज्यभ्रष्टश्च श्रुत्वैतद् व्रतं सर्वेप्सितप्रदम् । चकार विधिवद्विप्रो भक्तिश्रद्धासमन्वितः ॥ ५३ ॥

अमात्यः पञ्चभिर्वर्षैर्मन्त्रयित्वा परस्परम् । समागतश्च तत्रैव यत्रास्ते राजसत्तमः ॥ ५४॥

राजानमग्रतः कृत्वा गताः सर्वे बलान्विताः । हत्वा द्रोहकरान् सर्वानुत्सार्य च परं बलम् ॥ ५५॥

दृष्ट्वा त्वन्यान् समुत्सार्य कृत्वा राज्यमकण्टकम् । तमेव चक्रे राजानं पूर्ववत् सोऽप्य- पालयत् ॥ ५६ ।

अन्येऽपि ये व्रतं चक्रुरभीष्टं तेऽपि लेभिरे। एवं ये वै करिष्यन्ति व्रतं सर्वेप्सितप्रदम् ॥ ५७ ॥

तेषामभीष्टसिद्धि: स्याद्भास्करस्य प्रसादतः। साक्षादेव सप्तसप्तिः सर्वेषां पालक: स च ॥ ५८॥

श्रुत्वा कथामिमां दिव्यां व्रतं कृत्वा विधानतः । शक्तितो दक्षिणां दद्यात् सुवर्णं वाचकाय वे ॥ ५९ ॥

शृण्वन्ति ये कथां दिव्यां भक्तिभावसमान्विताः । गङ्गादिसर्वतीर्थानां स्नानपुण्यं लभन्ति ते ॥ ६० ॥

इति श्रीस्कन्दपुराणोक्तप्रतिहारषष्टीव्रतकथा समाप्ता ।

अथ विसर्जनम् -

 

ततः सूर्यं प्रणम्य विसर्जयेत् ।सूर्य को प्रणाम करके विसर्जन करें -

अर्घा में जल लेकर यह मंत्र पढेंगे और भगवान सूर्य पर डालें।

नमो सूर्य पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ ।

दक्षिणा -

दाहिने हाथ में तेकुशा -तिल-जल-तथा दक्षिणा को लेकर इस मन्त्र को पढ़ेंगे -

नमोऽद्य कृतैतत्प्रतिहारपष्ठीव्रतकरणतत्कथा- श्रवणकर्मप्रतिष्ठार्थमेतावद्द्रव्यमूल्यकहिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे । इति ब्राह्मणाय दक्षिणां दत्त्वा पारणां कुर्यात् ।

 

इति प्रतिहारषष्टीव्रतपूजा समाप्ता ।

डॉ०अखिलेशकुमारमिश्रः,

अंशकालिक-सहायक-प्राचार्यः, 
स्नातकोत्तर-वेदविभाग:, 
*कामेश्वरसिंह-दरभङ्गा संस्कृत-विश्वविद्यालयः, कामेश्वरनगरम्, दरभङ्गा।

bottom of page